सोमवार, 7 मार्च 2011

यन्मण्डलम्

यन्मण्डलं दीप्तिकरं विशालम्, रतनप्रभं तीव्रमनादि रूपम् । 
दारिद्रय दुःख क्षय कारणं च, पुनातु मां तत्सवितुर्वरेण्यं॥ 

यन्मण्डलं देवगणैः सुपूजितम्, विपैः स्तुतं मानवमुक्ति कोविदम् । 
तं देव देवं प्रणमामि भर्गं, पुनातु मां तत्सवितुर्वरेण्यम्॥ 

यन्मण्डलं ज्ञानघनं त्वगम्यं, त्रैलोक्य पूज्यं त्रिगुणात्मरूपम् । 
समस्त तेजोमय दिव्य रूपम् पुनातु मां तत्सवितुर्वरेण्यम्॥ 

यन्मण्लं वेदविदोपगीतं, यद्योगिनां योगपथानुगम्यम् । 
तत्सर्ववेदं प्रणमामि दिव्यं, पुनातु मां तत्सवितुर्वरेण्यम्॥ 

कोई टिप्पणी नहीं:

LinkWithin

Blog Widget by LinkWithin